पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवमातृकावर्णमालास्तोत्रम् ४९३

आत्मभूताय सर्वेषां मतिशुद्धाय शूलिने ॥ ७ आकारायातिशुद्धाय साक्षिणे सर्ववस्तुनः । अम्बिकापतये तुभ्यमसङ्गाय नमोनमः ॥ ८ इकारायेश्वराख्याय सर्वसिद्धिकराय च । इन्द्रादिलोकपालाना मियत्ताकारिणे नमः ॥ ९ ईकाराय वरिष्ठाय वान्छितार्थप्रदाय च । वञ्चकानामलभ्याय वसुदाय नमोनमः ॥ १० उकारायोग्रजन्तूनामुग्ररूपाय शूलिने । उत्तमानां तु जन्तूनामुपास्याय नमोनमः ॥ ११ ऊकारायोपवीताय ह्यूर्जितायोत्तमात्मने । उत्तम ज्ञानगम्याय नमस्ते परमात्मने ॥ १२ ऋकारायादिभूतायः रामपूर्वार्चितायच । ऋचामर्थस्वरूपाय नमस्सत्यपरात्मने ॥ १३ ॠकाराय निसर्गाय नित्यतृप्ताय शम्भवे । रसादिभूतरूपाय नमश्शुद्धचिदात्मने ॥ १४ लृकाराय लसद्दण्डमण्डिताभरणाय च ।