पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ शिवमातृकावर्णमालास्तोत्रम् ॥

श्रीसूत उवाच:- अथातस्सम्प्रवक्ष्यामि शिवस्थानं समासतः । यत्र सञ्चिन्त्य देवेशं कैवल्यं लभते नरः ॥ १ पुरा नारायण: श्रीमान् किरीटी गरुडध्वजः । श्रीमत्कैलासपर्यन्ते तताप परमं तपः ॥ २ भस्मोद्धूळितसर्वाङ्ग स्त्रिपुण्ड्राङ्कितमस्तकः । रुद्राक्षमालाभरणो जटावल्कलमण्डित: ॥ ३ तपसा तप्तदेहस्य केशवस्य महात्मनः । प्रादुरासीन्महादेवश्शङ्करः करुणाकरः ॥ ४ तं दृष्ट्वा पुण्डरीकाक्षो महादेवं घृणानिधिम् । अम्बिकासहितं रुद्रं चन्द्रमौळिं सनातनम् ॥ ५ प्रणम्य दण्डवद्भूमौ भक्त्या परमया सह । स्तोतुमारभते विष्णु स्सर्वभूतहितावहम् ॥ ६ अकाराय नमस्साक्षादनन्तानन्तमूर्तये ॥