पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९४ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

लिङ्गलिङ्ग्यादिहीनाय लिङ्गरूपाय ते नमः ॥ १५ लृकाराय लयस्थाय ध्वंसकायादिहेतवे । लक्षारुणशरीराय लाभस्थानाय वै नमः ॥ १६ एकाराय नमश्शश्व दिदन्तासाक्षिणे तथा । अहन्तासाक्षिणे साक्षात्प्रत्यगद्वयवस्तुने ॥ १७ ऐकारायामलज्ञानप्रभावापरिशीलिनाम् । आत्मरूपतया नित्यं प्रतीताय नमो नमः ॥ १८ ओङ्काराय विरिञ्चाय विष्णवे रुद्रमूर्तये । वाच्यवाचकहीनाय स्वयं भासाय ते नमः ॥ १९ औकाराय महेशाय महामन्त्रार्थरूपिणे । महादेवाय मात्रादि प्रपञ्चाय नमोनमः ॥ २० बिन्दुरूपाय बीजाय बीजाधिष्ठानरूपिणे । बीजनाशकरज्ञान स्वरूपाय नमोनमः ॥ २१ विसर्जनीय रूपाय विस्मयाय महात्मने । विसर्जनीयनिष्ठानां विशेषार्थाय वै नमः ॥ २२ ककाराय कपूर्वादि देवतापूजितायच ।