पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४८८ बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:

वराहो देवता तत्र रामक्षेत्रमुदाहृतम् ।
तीर्थं च तुङ्गभद्राख्यं शक्तिः श्रीशारदेति च ॥ १६
आचार्यस्तत्र चैतन्य ब्रह्मचारीति विश्रुतः ।
वार्तिकादि ब्रह्मविद्या कर्ता यो मुनिपूजितः ॥ १७
सुरेश्वराचार्य इति साक्षाद्ब्रह्मावतारकः ।
सरस्वती पुरी चेति भारत्यारण्यतीर्थकौ ॥ १८
गिर्याश्रममुखानि स्युस्सर्वनामानि सर्वदा ।
सम्प्रदायो भूरिवाळो यजुर्वेद उदाहृतः ॥ १९
अहं ब्रह्मास्मीति तत्र महावाक्यमुदीरितम् ।
चतुर्णां देवताशक्ति क्षेत्रनामान्यनुक्रमात् ॥ २०
महावाक्यानि वेदांश्च सर्वमुक्तं व्यवस्थया ।
इति श्रीमत्परमहंसपरिव्राजकभूपतेः ॥ २१
आम्नायस्तोत्रपठनादिहामुत्र च सद्गतिम् ।
प्राप्यान्ते मोक्षमाप्नोति देहान्ते नात्र संशयः ॥ २२

इत्याम्नायस्तोत्रम् ॥