पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आम्नायस्तोत्रम् ४८७

भोगवालस्सम्प्रदाय स्सत्रारण्यवने पदे । तस्मिन् देवो जगन्नाथः पुरुषोत्तमसंज्ञितः ॥ ८ क्षेत्रं च वृषला देवी सर्वलोकेषु विश्रुता । प्रकाश ब्रह्मचारीति हस्तामलकसंज्ञितः ॥ ९ आचार्यः कथितस्तत्र नाम्ना लोकेषु विश्रुतः । खातं महोदधिस्तीर्थं ऋग्वेदस्समुदाहृतः ॥ १० महावाक्यं च तत्रोक्तं प्रज्ञानं ब्रह्मचोच्यते । उत्तरस्यां श्रीमठस्स्यात् क्षेत्रं बदरिकाश्रमम् ॥ ११ देवो नारायणो नामशक्तिः पूर्णगिरीतिच । सम्प्रदायोनन्दवाळस्तीर्थं चाळकनन्दिका ॥ १२ आनन्दब्रह्मचारीति गिरिपर्वतसागराः । नामानि तोटकाचार्यो वेदोधर्वणसंज्ञिकः ॥ १३ महावाक्यं च तत्रायमात्मा ब्रह्मेति कीर्त्यते । तुरीयो दक्षिणस्यां च शृङ्गेर्यां शारदामठः ॥ १४ मलहानिकरं लिङ्गं विभाण्डकसुपूजितम् । यत्रास्ते ऋष्यशृङ्गस्य महर्षेराश्रमो महान् ॥ १५