पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५९
दक्षिणामूर्ति मानसिकपूजास्तोत्रम्

चाप्रभागे । चिदाकृते निर्मलपूर्णकाम विनिर्मितं पावन दक्षिणास्य ॥ २१

 ताम्बूलमद्य प्रतिसंगृहाण कर्पूरमुक्तामणिचूर्ण- युक्तम् । सुपर्णपर्णान्वितपूगखण्डमनेकरूपाकृति दक्षिणास्य ॥ २२

 नीराजनं निर्मलपात्रसंस्थं कर्पूरसंदीपित मच्छरू- पम् । करोमिवामेश तवोपरीदं व्योमाकृते शङ्कर दक्षि- णास्य ॥ २३

 ततःपरं दर्पणमीश पश्य स्वच्छं जगद्दीपितचक्रभा- स्वत् । माणिक्यमुक्तामणिहेमनील विनिर्मितं पावन- दक्षिणास्य ॥ २४

 मन्दारपङ्केरुहकुन्दजाजीसुगन्धपुष्पाञ्जलिमर्प- यामि । त्रिशूलढक्काञ्चितपाणियुग्म ते दक्षिणामूर्ति- विरूपधारिन् ॥ २५

 प्रदक्षिणं सम्यगहं करिष्ये कालत्रये त्वां करुणा-