पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६०
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

भिरामम् । शिवामनोनाथ ममापराधं क्षमस्व यज्ञेश्वर- दक्षिणास्य ॥ २६

 नमोनमः पापविनाशनाय नमोनमः कञ्जभवा- र्चिताय । नमोनमः कृष्णहृदि स्थिताय श्रीदक्षिणा- मूर्तिमहेश्वराय ॥ २७

इति विज्ञानेन्द्रविरचितं श्रीदक्षिणामूर्ति
मानसिकपूजास्तोत्रम् ॥