पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५८
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

भाज्ययुक्तम् । मेधाख्य सर्वज्ञ बुधेन्द्रपूज्य दिगम्बर स्वीकुरु दक्षिणास्य ॥ १६

 आज्येन संमिश्रमिमं प्रदीपं वर्तित्रयेणान्वितमग्नि- युक्तम् । गृहाण योगीन्द्र मयार्पितं भो श्रीदक्षिणा- मूर्तिगुरो प्रसीद ॥ १७

 शाल्योदनं निर्मलसूपशाकभक्ष्याज्यसंयुक्तदधि- प्रसिक्तम् । कपित्थ सद्राक्ष फलैश्च चूतैस्सापोशनं भक्षय दक्षिणास्य ॥ १८

 गुडाम्बु सत्सैन्धवयुक्ततक्रं कर्पूरपाटीर लवङ्ग- युक्तम् । यज्ञेश कामान्तक पुण्यमूर्ते पिबोदकं निर्मल- दक्षिणास्य ॥ १९

 खमार्गनिर्यज्जलमाशु देव कुरूत्तरापोशनमभ्रकेश । प्रक्षाळनं पाणियुगस्य शर्व गण्डूषमापादय दक्षि- णास्य ॥ २०

 सम्यग्जलेनाचमनं कुरुष्व स्वस्थो भव त्वं मम-