पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५७
दक्षिणामूर्ति मानसिकपूजास्तोत्रम्

देव । विशालबाहूदरपञ्चवक्त्र श्रीदक्षिणामूर्ति सुख- खरूप ॥ ११

 कस्तूरिकाचन्दनकुङ्कुमादिविमिश्रगन्धं मणिपात्र संस्थम् । समर्पयिष्यामि मुदा महात्मन् गौरीमनो- वस्थितदक्षिणास्य ॥ १२

 शुभ्राक्षतैश्शुभ्रतिलैस्सुमिश्रैस्संपूजयिष्ये भवत:- परात्मन्, तदेकनिष्ठेन समाधिनाथ सदाहमानन्द सुदक्षिणास्य ॥ १३

 सुरत्नदाङ्गेय किरीटकुण्डलं हाराङ्गुळीकङ्कणमेख- लावृतम् । खण्डेन्दुचूडामृतपात्रयुक्तं श्रीदक्षिणामूर्ति- महं भजामि ॥ १४

 मुक्तामणिस्थापितकर्बुरप्रसूनैस्सदाहं परिपूज- यिष्ये । कुक्षिप्रपुष्टाखिललोकजाल श्रीदक्षिणामूर्ति- महत्स्वरूपम् ॥ १५

 दशाङ्गधूपं परिकल्पयामि नानासुगन्धान्वित-