पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥


मन्दस्मित स्फुरित मुग्धमुखारविन्दं
   कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम् ।
आताम्रकोमल जटाघटितेन्दुलेख-
   मालोकये वटतटीनिलयं दयाळुम् ॥ १
कन्दळित बोधमुद्रं केवल्यानन्द संविदुन्निद्र्म् ।
कलये कश्चन रुद्रं करुणारसपूरपूरितसमुद्रम् ॥ २
ओं जयदेव महादेव जय कारुण्यविग्रह ।
जयभूमिरुहावास जय वीरासनस्थित ॥ ३
जय कुन्देन्दुपाटीरपाण्डुराङ्गाङ्गजापते ।
जयं विज्ञानमुद्राक्ष मालावीणालसत्कर ॥ ४
जयेतरकरन्यस्त पुस्तकास्तरजस्तमः।
जयापस्मार निक्षिप्त दक्षपाद सरोरुह ॥ ५
जय शार्दूल चर्मैक परिधान लसत्कटे।
जय मन्दस्मितोदार मुखेन्दु स्फुरिताकृते ॥ ६