पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४१
मेधादक्षिणामूर्तिमन्त्रवर्णपदस्तुतिः

दक्षत्रिपुरसंहारे यः कालविषभञ्जने ।
दकाररूपिणे ... ॥ ८
क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।
क्षिकाररूपिणे ... ॥ ९
णाकारवाच्यो यस्सुप्तं सन्दीपयति में मनः ।
णाकाररूपिणे ...॥ १०
मूर्तयोह्यष्टधा यस्य जगज्जन्मादिकारणम् ।
मूकाररूपिणे ... ॥ ११
तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।
सरेफतात्मनेमे ....॥ १२
येयं विदित्वा ब्रह्माद्या ऋषयो यान्ति निवृतिम् ।
येकाररूपिणे ... ॥ १३
महतां देवमित्याहुर्निगमागमयोशिशवः ।
नकाररूपिणे ... ॥ १४
सर्वस्य जगतोह्यन्तर्बहिर्यो व्याप्य संस्थिता।
मकाररूपिणे ...॥ १५