पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३२
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

॥ मेधादक्षिणामूर्ति मन्त्रवर्णपदस्तुतिः ।।



ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयश्शिखाः ।
तस्मै तारात्मने मेधादक्षिणामूर्तये नमः ॥ १
नत्वायं मुनयस्सर्वे परं यान्ति दुरासदम् ।
नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २
मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।
मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ३
भवमाश्रित्य यं विद्वान् नभवोह्यभवत्परः ।
भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ४
गगनाकारवद्धान्तमनुभात्यखिलं जगत् ।
गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ५
वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।
वकाररूपिणे ... ॥ ६
तेजोभिर्यस्य सूर्योऽसौ कालक्लृप्तिकरो भवेत् ।
तेकार रूपिणे ...॥ ७