पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
गणेशमानसपूजा

द्विजादिसर्वैरभिवन्दितं च
   शुकादिभिर्मोदसुमोदकाद्यैः।
सम्भाष्य चालोक्य समुत्थितं तं
   सुमण्डपं कल्प्य निवेशयामि ॥ ४
रत्नैः सुदीप्तैः प्रतिविम्बि तं
   पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं
   सङ्कल्प्य देवं विनिवेशयामि ॥ ५
सिद्ध्या च बुद्ध्या सह विघ्नराज
   पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
   चित्तेन दत्तं च सुखोष्णभावम् ॥ ६
ततः सुवस्त्रेण गणेशमादौ
   सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो
   मनोविलीनं कुरु ते पदाब्जे ॥ ७