पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥गणेशमानसपूजा॥

गृत्समद उवाच-

विघ्नेश वीर्याणि विचित्रकणि
   बन्दीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं
   ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ १
एवं मया प्रार्थितविघ्नराज-
   श्चित्तेन चोत्थाय बहिर्गणेशः।
तं निर्गतं वीक्ष्य नमन्ति देवाः
   शम्भ्वादयो योगिमुखास्तथाहम् ॥ २
क्षौचादिकं ते परिकल्पयामि
   हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं
   देवं समायां विनिवेशयामि॥ ३