पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६३
विश्वेश्वराष्टकम्

व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् ।
पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसी ...॥ ५
आशां विहाय परिहृत्य परस्वनिन्दां
  पापे रतिञ्च विनिवार्य मनस्समाधौ ।
आधारहृत्कमलमध्यगतं परेशं वाराणसी ... ॥ ६
शीतांशुशोभितकिरीटविराजमानं
   फालेक्षणानलविनाशितपञ्चबाणम् ।
नागाधिपारचितभासुरकर्णपूरं वाराणसी ... ॥ ७
पश्चाननं दुरितमत्तमतङ्गजानां
   नागान्तकं दनुजपुङ्गवपन्नगानाम् ।
दावानलं मरणशोकभयाटवीनां वाराणसी ...॥ ८
वाराणसीपुरपतेः परमेश्वरस्य
व्याघ्रोक्तमष्टकमिदं पठते मनुष्यः ।
विद्याश्श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ॥ ९

     ॥ श्रीविश्वेश्वराष्टकं सम्पूर्णम् ॥
    ‌ ------------