पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८३
शिवकेशादिपादान्तवर्णनस्तोत्रम्


चाण्डीशेते श्रिये स्तामधिक-
मवनताखण्डले कुण्डले वः॥ ६
खट्वाङ्गोदप्रपाणेः स्फुटविक-
टपुटोवक्ररन्ध्रप्रवेश-
प्रेप्सूदञ्चत्स्फणोरुश्वसदति-
धवलाहीन्द्रशङ्कांदधानः ।
युष्माकं कम्रवक्राम्बुरुह-
परिलसत्कर्णिकाकारशोभा
शश्वत्त्राणाय भूयादसम-
तिविमलोत्तुङ्गकोणः सघोणः ॥७
क्रुध्यत्यद्धा ययोः स्वां तनुमति-
लसतोर्बिम्बतांलक्षयन्ती
भर्त्रे स्पर्धातिनिघ्नामुहुरित-
रवधूशङ्कया शैलकन्या
युष्मांस्तौशश्वदुच्चैरबहुल-
दशमीशर्वरीशातिशुभ्रा-