पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


शार्वाणीभर्तुरुच्चैयुगल-
मथदधद्विभ्रमंतभ्द्रुवोर्वः ॥४
युग्मेरुक्माब्जपिङ्गे ग्रहइव
पिहिते द्रास्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलाम्बररचि-
तबृहत्कञ्चुकोऽभूत्प्रपञ्चः ।
ते त्रैनेत्रे पवित्रे त्रिदशवर-
घटामित्रजैत्रो प्रशस्ने
नेत्रेनेत्रे भवेतां द्रुतमिह
भवतामिन्द्रियाश्वान्नियन्तुम् ॥५
चण्डीवक्रार्पणेच्छोस्तदनु
भगवतः पाण्डुरुक्पाण्डुगण्ड-
प्रोद्यत्कण्डं विनेतुं वितनुत-
इव ये रत्नकोणैर्विधृष्टिम् ।
चण्डार्चिमण्डलाभे सतत-
नतज्जनध्वान्तखण्डातिशौण्डे