पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७२
बृहत्स्तोत्ररत्नाकरे - प्रथममागः


हृधैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्गुमश्री-
रुद्योतन्त्या नितान्तं धवल-
धवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यपूरव्यतिकरसदृशा तेजसा भासमान-
स्सद्योजातस्य दद्यादधर-
मणिरसौ सम्पदां सञ्चयं नः॥२६
कर्णालङ्कार नानामणिनिकररुचा सञ्चयैरंञ्च्वतायां
वर्ण्यायां खर्णपद्मोदरप-
रिविलसत्कर्णिकासन्निभायाम्।
पद्धयां प्राणवायोः प्रणत-
जनहृदम्भोजवानस्य शम्भो-
र्नित्यं नश्चित्तमेतद्विरच-
यतु सुखेनासिकां नासिकायाम् ॥२७
अत्यन्तं भासमाने रुचिर-
तररुचां सङ्गमात्सन्मणीना-
मुद्यञ्चण्डांशुधामप्रसर-