पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
गणपतिसहस्रनामस्तोत्रम्

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमाह्॥
मेखलावान्मन्दगतिः मतिमत्कमलेक्षणः।
महाबलो महावीरो महाप्राणमहामनाः।
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः।
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः।
लक्षो लक्षप्रदो लक्ष्यो लयस्थो लड्शुकप्रिय।
लास्यप्रियो लात्यपदो लाभकृल्लोकविश्रुतः।
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः।
विकर्ता विश्वतश्चुक्षुः विधाता विश्वतोमुखः।
वामदेवो विश्वनेता बज्री वज्रनिवारणः।
विश्वबन्धन विष्कम्भधारो विश्वामरप्रभुः।
शब्दब्रह्म शमप्राप्यो शम्भुशक्ति गणेश्वरः।
शास्ताशिखाप्तनिलयो शरण्यः शिखरीश्वरः।