पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


घनघान्यपतिर्घन्यो धनदो धरणीधरः।
ध्यानैकप्रकटो ध्येयः ध्यानो ध्यानपरायणः।
नन्द्यो नन्दिप्रियो नादो नदमध्यप्रतिष्ठितः।
निष्कळो निर्मलो नित्यओ नित्यानित्यो निरामयः।
परंव्योमा परन्धासापरमात्मा परम्पदः।
परात्परः पशुपतिः पूर्णमोदकसारवान्।
पूर्णानन्दह् परानन्दः पुराणपुरुषोत्तमः।
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः।
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः।
फलहस्तः फणिपतिः फेत्कारफणितप्रियः।
बाणार्किताङ्घ्रियुगळो बाणक्र्ळिकुतूहली।
ब्रह्मा ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः।
बृहत्तमो बह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः।
बृहन्नादाग्रथचीत्कारो ब्रह्माण्डावळिमेस्वलः।
भ्रूक्ष्रेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः।
मगवाम् भक्तिसुलमो भूतिदो भूतिभूषणः॥