पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

षडृतुकुसुमस्रग्वी षडाघारः षडक्षरः।
संसारवैद्यस्सर्वज्ञः सर्वभेषजभेषजः।
सृष्टिस्थितिलयक्रीडस्सुरकुञ्जरभेदनः।
सिन्दूरितमहाकुम्भस्सदसद्व्यक्तिदायकः।
साक्षी समुद्रमथनः खसंविद्यः स्वदक्षिणः।
स्वतन्त्रस्सत्यसङ्कल्पस्सामगानरतस्सुखी।
हंसो हसित्पिशाचीशो हवनो हव्यकव्यभुक्।
हव्यो हृतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः।
क्षेत्राघिपः क्षमामर्ता क्षमापरपरायणः।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः।
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः।
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः।
मेघादः कीर्तिदश्शोकहारी दौर्भाग्यनाशनः।
प्रतिवादिमुखस्तम्भो दुष्टचित्तसादनः।