पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३१
शिवभुजङ्गम्

महेशान मा गान्मनस्तो वचस्तः
सदा मह्यमेतत्पदानं प्रयच्छ ॥ ३२
त्वमत्यम्ब मां पश्य शीतांशुमौलि-
प्रिये भेषजं त्वं भवव्याधिशान्तौ ।
बहुक्लेशभाजं पदाम्भोजपोते
भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३
अनुद्यल्ललाटाक्षिवह्निप्ररोहै-
रवामस्फुरच्चारु वामोरुशोभैः।
अनङ्गभ्रमद्भोगिभूषाविशेषै-
रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४
अकण्ठे कलङ्कादनङ्गे भुजङ्गा-
दपाणौ कपालादभालेऽनलाक्षात् ।
अमौलौ शशाङ्कादवामे कलत्रा-
दहं देवमन्यं न मन्ये न मन्ये ॥ ३५
महादेव शम्भो गिरीश त्रिशूलिं-
स्त्वयीदं समस्तं विभातीति यस्मात् ।