पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तदा पाहि मां पार्वतीवल्लभान्यं
न पश्यामि पातारमेतादृशं मे ॥ २८
इदानीमिदानीं मृतिर्मे भवित्री-
त्यहो सन्तवं चिन्तया पीडितोऽस्मि ।
कथं नाम मा भून्मृतौ भीतिरेषा
नमस्ते गतीनां गते नीलकण्ठ ॥ २९
अमर्यादमेवाहमाबालवृद्धं
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः।
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा-
द्भवानीपते निर्भयोऽहं भवानि ॥ ३०
जराजन्म गर्भाधिवासादिदुःखा-
न्यसह्यानि जह्यां जगन्नाथदेव ।
भवन्तं विना मे गतिर्नैव शम्भो
दयालो न जागर्ति किं वा दया ते ॥ ३१
शिवायेति शब्दो नमःपूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।।