पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

शिवादन्यथा दैवतं नाभिजाने
शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६
यतोऽजायतेदं प्रपञ्चं विचित्रं
स्थितिं याति यस्मिन्यदेकान्तमन्ते ।
स कर्तादिहीनः स्वयं ज्योतिरात्मा
शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७
किरीटे निशेशो ललाटे हुताशो
भुजे भोगिराजो गले कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदेवं
न जाने न जाने न जाने न जाने ॥ ३८
अनेन स्तवेनादरादम्बिकेशं
परां भक्तिमासाद्य यं ये नमन्ति ।
मृतौ निर्भयास्ते जनास्तं भजन्ते
हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९