पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः॥ ॥ १२
न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे स्वं न जाने गिरीश।
तदा हि प्रसन्नोऽसि कस्यापि कान्ता-
सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३
स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महेशावलम्बे ।
प्रसन्नं सुतं त्रातुमग्रे मृकण्डो-
र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४
शिरोदृष्टिहृद्रोगशूलप्रमेह-
ज्वराशोंजरायक्ष्महिक्काविषाार्तान् ।
त्वमाद्यो भिषम्भेषजं भस्म शम्भो
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
विषण्णोऽस्मि सन्नोऽस्मि भिन्नोऽस्मि चाहम् ।