पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

भवान्प्राणिनामन्तरात्मासि शम्भो
ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६
स्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मी स्वयं तं वृणीते ।
किरीटस्फुरच्चामरच्छन्नमाला-
कलाचीगजक्षामभूषाविशेषैः ।। १७
भवान्यै भवायापि मात्रे व पित्रे
मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै नमस्त्र्ययम्बकाय ॥ १८
भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमाहं
स्वशक्त्या कृतं मेऽपराध क्षमस्व ॥ १९
यदा कर्णरन्ध्रं व्रजेत्कालवाह-
द्विषत्कण्ठ घण्टाघणात्कारनादः।