पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपि प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखर ...॥ ९
मृत्युभीतमृकण्डसूनुकृतस्तवं शिवसन्निधौ
यत्रकुत्र च यः पठेन्नहि तस्य मृत्युभयं भवेत् ।
पूर्णमायुररोगितामखिलार्थसम्पदमादरं
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ १०
॥ इति श्रीचन्द्रशेखराष्टकस्तोत्रं सम्पूर्णम् ॥