पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ उपमन्युकृतशिवस्तोत्रम् ॥

जय शङ्कर पार्वतीपते
मृड शम्भो शशिखण्डमण्डन ।
मदनान्तक भक्तवत्सल
प्रियकैलास दयासुधाम्बुधे ॥ १
सदुपायकथास्वपण्डितो
हृदये दुःखशरेण खण्डितः।
शशिखण्डशिखण्डमण्डनं
शरणं यामि शरण्यमीश्वरम् ॥ २
महतः परितः प्रसर्पत- .
स्तमसो दर्शनभेदिनो भिदे।
दिननाथ इव खतेजसा
हृदव्योम्योनि मनागुदेहि नः॥ ३
न वयं तव चर्मचक्षुषा
पदवीमप्युपतीक्षितुं क्षमाः।