पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९५
वेदपादस्तवः

नमामि नित्यं त्रिपुरारिमेनं
यमान्तकं षण्मुखतातमीशम् ।
ललाटनेत्रार्दितपुष्पचापं
विश्वं पुराणं तमसः परस्तात् ॥ ९६
मुरारिनेत्रार्थितपादपद्म-
मुमाङ्घ्रिलाक्षारससक्तपाणिम् ।
नमामि देवं विषनीलकण्ठं
हिरण्यदन्तं शुचिवर्णमादरात् ।। ९७
अनन्तमव्यक्तमचिन्त्यमेकं
हरन्तमाशाम्बरमम्बराभम् ।
अजं पुराणं प्रणमामि योऽय-
मणोरणीयान्महतो महीयान् ॥ ९८
अन्तस्थमात्मानमजं न दृष्ट्वा
भ्रमन्ति मूढा गिरिगह्वरेषु ।
पश्चादुदक्षिणतः पुरस्ता-
दधस्विवासीदुपरि स्विदासीत् ॥ ९९