पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९६
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

इमं नमामीश्वरमिन्दुमौळिं
शिवं महानन्दमशोकदुःखम् ।
हुदम्बुजे तिष्ठति यः परास्मा
परीत्य सर्वाः प्रदिशो दिशश्च ॥ १००
रागादिकापथ्यसमुद्भवेन
भग्नं भवाख्येन महामयेन ।
विलोक्य मां पालय चन्द्रमौळे
भिषक्तमं त्वाभिसजां शृणोमि ॥ १०१
दुःखाम्बुराशिं सुखलेशहीन-
मस्पृष्टपुण्यं बहुपातकं माम् ।
मृत्योः करस्थं भवसर्पभीतं
पश्चात्पुरस्तादधरादुदक्स्थात् ॥ १०२
गिरीन्द्रजाचारुसुखावलोक-
सुगीतया चारुतयैव दृष्ट्या।
वयं दयापूरितयैव सूर्ण-
मपोन मावा दुरिता तरेम ॥ १०२