पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

नमश्शिवाय त्रिपुरान्तकाय
जगत्त्रयेशाय दिगम्बराय।
नमोऽस्तु मुख्याय हराय भूयो
नमो जघन्याय च बुध्न्याय च ॥ ९२
नमो विकाराय विकारिणे ते
नमो भवायास्तु भवोद्भवाय ।
बहु प्रजात्यन्तविचित्ररूपा
यतः प्रसूता जगतः प्रसूती ॥ ९३
तस्मै सुरेशोरुकिरीटनाना-
रत्नावृताष्टापदविष्टराय।
भस्माङ्गरागाय नमः परस्मै
यस्मात्परान्नापरमस्ति किंचित् ॥ ९४
सर्पाधिराजौषधिनाथ युद्ध-
क्षुभ्यज्जटामण्डलगह्वराय ।
तुभ्यं नमस्सुन्दरताण्डवाय
यस्मिन्निदग्ं सञ्चविचैति सर्वम् ।। ९५