पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
बृहत्स्तोत्ररत्नाकरे-प्रथमभागः

भारतीसुन्दरीनाथो विनायकरतिप्रियः॥४५
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोहरः।
रमारमेशपूर्वाङ्गो रतिकन्दर्पपश्चिमः।
आमोद मोदजननस्सप्रमोदप्रमोदनः।
समेधितसमृद्धश्रीः बुद्धिसिद्धिप्रवर्तकः।
दत्तसौमुख्यसुमुखः कान्तिकन्दळिताश्रयः॥
मदनावत्याश्रिताङ्घ्रः कृतवैमुख्यदुर्मुखः।
विघ्नस्म्पल्लतोपघ्नः सदोन्निद्रमदद्रवः॥
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः।
तीव्राप्रासन्ननयनो ज्वालिनीपालनैकदृक्।
मोहिनीमोहनो भोगदायिनीकान्तिमण्डितः।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः।
वसुधारा मनोमोद महाशङ्खनिभिप्रभुः।
नमद्वसुमतीमौळिमहापद्मनिधिप्रभुः।