पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
गणपतिसहस्रनामस्तोत्रम्

स्रर्पकक्ष्पोदराबन्धः सर्पराजोत्तरीयकः।
रक्त्तरक्त्ताबरधरो रक्त्तमाल्यविभूषणः।
रक्त्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः।
श्वेतश्श्वेताम्बरधरः श्वेतमाल्यविभूषणः।
श्वेतातपत्ररुचिरश्वेतचामरवीजितः॥३९
सर्वावयवसंपूर्णस्सर्वलक्षणलक्षितः।
सर्वाभरणभूषाढ्यस्सर्वशोभासमन्वितः॥४०
सर्वमङ्गळमाङ्गळ्यस्सर्वकारणकारणः।
सर्वदैककरश्शार्ङ्गीबीजपूरगदाधरः॥
इक्षुचापधरश्शूली चक्रपाणिस्सरोजभृत्।
पाशी धृतोत्पलश्शालीमञ्जरीभृत्स्वदन्तभृत्॥
कल्पवल्लीधरो विश्वाभयदेककरो वशी।
अक्षमालाधरो ज्ञानमुद्रावान्मुद्गरायुधः।
पूर्णपात्री कम्बुधरो विधूतारिसमूहकः।
मातुलुङ्गधरश्चूतकलिकाभृत्कुठारवान्॥४४
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः।