पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८६
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

सुगण्डं सुदृशं वन्दे सुगन्धिं पुष्टिवर्धनम् ॥ ३०
भिक्षाहार हरित्क्षौमं रक्षाभूषं क्षितिक्षमम् ।
यक्षेशेष्टं नमामीशमक्षरं परमं प्रभुम् ।। ३१
अर्धालकमवस्त्रार्धमस्थ्युत्पलदळस्रजम् ।
अर्धपुंलक्षणं वन्दे पुरुषं कृष्णपिङ्गळम् ॥ ३२
सकृत्प्रणतसंसारमहासागरतारकम् ।
प्रणमामि तमीशानं जगतस्तस्थुषस्पतिम् ॥ ३३
त्रातारं जगतामीशं दातारं सर्वसम्पदाम् ।
नेतारं मरुतां वन्दे जेतारमपराजितम् ॥ ३४
तं त्वामन्तकहन्तारं वन्दे मन्दाकिनीधरम् ।
ततानि विदधे योऽयमिमानि त्रीणि विष्टपान् ॥ ३५
सर्वज्ञं सर्वगं सर्वं कविं वन्दे तमीश्वरम् ।
यतश्च यजुषा सार्थमृचस्सामानि जज्ञिरे ॥ ३६
भवन्तं सुदृशं वन्दे भूतभव्यभवत्पतिम् ।
त्यजन्तीतरकर्माणि यो विश्वा भुवि पश्यति ॥ ३७
हरं सुरनियन्तारं परं तमहमानतः ।