पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८७
वेदपादस्तवः

यदाज्ञया जगत्सर्व व्याप्य नारायणः स्थितः ॥ ३८
तं नमामि महादेवं यन्नियोगादिदं जगत् ।
कल्पादौ भगवान् धाता यथापूर्वमकल्पयत् ॥ ३९
ईश्वरं तमहं वन्दे यस्य लिङ्गमहर्निशम् ।
यजन्ते सह भार्याभिरिन्द्रज्येष्ठा मरुद्गणाः ॥ ४०
नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा ।
अवापुस्त्वं स्वमैश्वर्यं देवासः पूषरातयः ।। ४१
तं वन्दे देवमीशानं यं शिवं हृदयाम्बुजे ।
सततं यतयश्शान्तास्सञ्जानाना उपासते॥ ४२
तदस्मै सतवं कुर्मो नमः कमलकान्तये।
उमाकुचपदोरस्का या ते रुद्र शिवा तनूः ॥ ४३
नमस्ते रुद्र भावाय नमस्ते रुद्र केळये।
नमस्ते रुद्र शान्त्यै च नमस्ते रुद्र मन्यथे ॥ ४४
ईशानं सकलाराध्यं वन्दे सम्पत्समृद्धिदम् ।
यस्य चासीद्धरिश्शस्त्रं ब्रह्मा भवति सारथिः॥ ४५
क्षताश्वरथनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तक ।