पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८५
वेदपादस्तवः

नम आत्माधिपतये दिशां च पतये नमः ॥ २२
विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने ।
विश्वहर्त्रेऽग्निनेत्राय विश्वरूपाय वै नमः ॥ २३
ईशान ते तत्पुरुष नमो घोराय ते सदा ।
वामदेव नमस्तुभ्यं सद्योजाताय वै नमः । २४
भूतिभूषाय भक्तानां भीतिभङ्गरताय ते।
नमो भवाय भर्गाय नमो रुद्राय मीढुषे ।
सहस्राङ्गाय साम्बाय सहस्राधीश ते नमः।
सहस्रबाहवे तुभ्यं सहस्राक्षाय मीढुषे ॥
सुकपोलाय सोमाय सुललाटाय सुश्रुवे ।
सुदेहाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥
वन्देऽहं देवमानन्दसन्दोहं लास्यसुन्दरम् ।
समस्तजगतां नाथं सदसस्पतिमद्भुतम् ।। २८
भवक्लेशनिमित्तोरुभयच्छेदकृते सताम् ।
नमस्तुभ्यमषाढाय सहमानाय वेधसे ।। २९
सुजङ्घं- सूदरं सूरुं सुकण्ठं सोमभूषणम् ।