पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

व्यासस्सर्गस्सुसङ्क्षेपो विस्तरः पर्ययो नरः ।
ऋतुस्संवत्सरो मास: पक्षस्संख्यासमापनः ॥१४१
कळा काष्ठा लवा मात्रा मुहूर्ताह:क्षपाक्षणाः ।
विश्वक्षेत्रं प्रजाबीज लिङ्गमाद्यस्सुनिर्गमः ॥१४२
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥१४३
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥१४४
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥१४५
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥१४६
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः ॥ १४७
ऊद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः॥१४८