पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७७
श्रीशिवसहस्रनामस्तोत्रम्


विबुधोऽग्रवरस्सूक्ष्मस्सर्वदेवस्तपोमयः ।
सुयुक्तश्शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥१४९
गुहः कान्तो निजस्सर्गः पवित्रं सर्वपावनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १५०
अभिरामस्सुरगणो विरामस्सर्वसाधनः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १११
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थस्सिद्धभूतार्थोऽचिन्त्यस्सत्यव्रतश्शुचिः॥१५२
व्रतधिपः परं ब्रह्म भक्तानुग्रहकारकः ।
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥१५३
यथाप्रधानं भगवानिति भक्त्त्या स्तुतो मया ।
यं न ब्रह्मादयो देवा विदुस्तत्वेन नर्षयः॥ १५४
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ।
भक्त्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥१५५
ततोऽभ्यनुज्ञा सम्प्राप्य स्तुतो मतिमतां वरः।
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥१५६