पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७५
श्रीशिवसहस्रनामस्तोत्रम्


सहस्रबाहुस्सर्वाङ्गः शरण्यस्सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गळ: ॥१३३
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४
गभस्तिर्ब्रह्मकृद्ब्रह्म ब्रह्मविद्ब्राह्मणो गतिः।
अनन्तरूपश्चैकात्मा तिग्मतेजास्स्वयम्भुवः ॥ १३५
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनाळाग्रस्सुरभ्युत्तरणो नरः ॥१३६
कर्णिकारमहास्रग्वी नीलमौळि: पिनाकभृत् ।
उमापतिरुमाकान्तो जाह्नवीभृदुमाधवः ॥१३७
वरो वराहो वरदो वरेण्यस्सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गळः ॥१३८
प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।
सर्वपार्श्वसुखस्त्र्यक्षो धर्मसाधारणो वरः॥१३९
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥१४०