पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
श्रीशिवसहस्रनामस्तोत्रम्

दक्षयागापहारी च सुसहो मध्यमस्तथा ।
तेजोपहारी बलहा मुदितोऽर्थोऽजिता वरः ॥ ५३
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ।
न्यग्रोधरूपो न्यग्रोधवृक्षकर्णस्थितिर्विभुः ॥ ५४
सुतीक्ष्णदशनश्चैव महाकायो महाननः ।
विष्वक्सेनो हरियज्ञस्संयुगापीडवाहनः ॥५५
तीक्ष्णतापश्च हर्यश्वस्सहायः कर्मकालवित् ।
विष्णुप्रसादितो यज्ञस्समुद्रो बडबामुखः ॥५६
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ।
उग्रतेजा महातेजा जन्यो विजयकालवित् ॥५७
ज्योतिषामयनं सिद्धिस्सर्वविग्रह एव च ।
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ॥५८
वैष्णवः प्रजवी ताळी खेली कालकटङ्कटः।
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः || ५९
प्रजापतिर्विश्वबाहुर्विभागः सर्वतोमुखः।
विमोचनस्सुमरणो हिरण्यकवचोद्भवः ॥६०