पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

उष्णीषी व सुवक्त्रश्च उदग्रो विनतस्तथा ।
दीर्घश्च हरिकेशश्च सुतीर्थ: कृष्ण एव च ॥४५
सृगालरूपः सिद्धार्थो मुण्डस्सर्वशुभङ्करः ।
अजश्च बहुरूपश्च गङ्गाधारी कपर्द्यपि ॥४६
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभः स्थलः ।
त्रिजटश्चीरवासाश्च रुद्रस्सेनापतिर्विभुः ॥४७
नक्तञ्चरोऽहश्चरश्च तिग्ममन्युस्सुवर्चसः ।
गजहा दैत्यहा कालो लोकधाता गुणाकरः॥ ४८
सिंहशार्दूलरूपश्च व्याघ्रचर्माम्बरावृतः ।
कालयोगी महानाथस्सर्वकामश्चतुष्पथः ॥४९
निशाचरः प्रेतराजो भूतचारी महेश्वरः।
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ॥५०
नृत्यप्रियो नित्यनर्तो नर्तकस्सवलालसः।
महाघोरतपाश्शूरो नित्योऽनीहो निरालयः॥ ५१
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ।
अमर्षणोऽमर्षणात्मा यज्ञहा कामनाशकः ॥ ५२