पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

मेघजो बलचारीच महीचारी स्तुतस्तथा ।
सर्वतूर्यविनोदी च सर्ववाद्यपरिग्रहः ॥ ६१
व्याळरूपो गुहावासी ग्रहमाली तरङ्गवित् ।
त्रिदशः कालदृक्कर्मसर्वबन्धविमोचनः ॥ ६२
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः।
सांख्यप्रसादो दुर्वासास्सर्वसाधुनिषेवितः ॥६३
प्रस्कन्दनो विभागज्ञो ह्यतुल्यो यज्ञभागवित् ।
सर्ववासस्सर्वचारी दुर्वासा वासवोऽमरः ॥ ६४
हैमो हेमकरो यज्ञस्सर्वधारी धरोत्तमः ।
लोहिताक्षो महाक्षश्व विजयाक्षो विशारदः ।। ६५
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ।
मुख्योऽमुख्यश्च देहश्च काहळिस्सर्वकामदः ॥ ६६
सर्वकालप्रसादश्च सुबलो बलरूपभृत् ।
सर्वकामप्रदश्चैव सर्वदस्सर्वतोमुखः ॥६७
आकाशनिर्विरूपश्च निपातो ह्यवशः खगः ।
रौद्ररूपोंऽशुरादित्यो बहुरश्मिस्सुवर्चसी ॥ ६८