पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३७
सुब्रह्मण्यषोडशनामस्तोत्रम्

षोडशैतानि नामानि यो जपेद्भक्तिसंयुतः ।
बृहस्पतिसमो बुद्ध्या तेजसा ब्रह्मणस्समः ॥६
कन्यार्थी लभते कन्यां ज्ञानार्थी ज्ञानमाप्नुयात् ।
विद्यार्थी लभते विद्यां धनार्थी धनमश्नुते ॥७
यद्यत्प्रार्थयते मर्त्यः तत्सर्वं लभते ध्रुवम् ।
॥ इति सुब्रह्मण्यषोडशनामस्तोत्रम् ॥