पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ स्कन्दवेदपादस्तवः ॥

यो देवानां पुरो दित्सुरर्थिभ्यो वरमीप्सितम् ।
अग्रे स्थितस्स विघ्नेशो ममान्तर्हृदये स्थितः ॥१

महः पुरा वैबुधसैन्धवश्रीशराटवीमध्यगतह्रदान्तः।
श्रीकण्ठफालेक्षणजातमीडे तत्पुष्करस्यायतनाद्धि जातम् ॥२

महो गुहाख्यं निगमान्तपङ्क्तिमृगयाङ्घ्रिपङ्केरुह
युग्ममीडे । साम्बो वृषस्थस्सुतदर्शनोक्तो यत्पर्यपश्यत्सरिरस्य मध्ये॥३

त्वामेव देवं शिवफालनेत्रमहो विवर्तं परमात्मरूपम् ।
तिष्ठन्व्रजञ्जाग्रदहं शयाना प्राणेन वाचा मनसा विभर्भि ॥४

नमो भवानीतनुजाय तेऽस्तु विज्ञाततत्वा मुनयः
पुराणाः । यमेव शम्भुं हरिमब्जयोनिं यमिन्द्रमाहुर्वरुणं यमाहुः ॥५