पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ सुब्रह्मण्यषोडशनामस्तोत्रम् ॥

 अस्य श्रीसुब्रह्मण्यषोडशनामस्तोत्रमहामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः सुब्रह्मण्यो देवता ममेष्टसिद्ध्यर्थे जपे विनियोगः ॥

षड्वक्त्रं शिखिवाहनं त्रिणयनं चित्राम्बरालङ्कतं
शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं हस्तैर्दधानं सदा
ध्यायेदीप्तसिसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
प्रथमो ज्ञानशक्त्यात्मा द्वितीयः स्कन्द एव च ।
अग्निगर्भस्तृतीयस्तु बाहुलेयश्चतुर्थकः ॥२
गाङ्गेयः पञ्चमः प्रोक्तः षष्ठश्शरवणोद्भवः ।
सप्तमः कार्तिकेयश्च कुमारश्चाष्टमस्तथा ॥३
नवमः षण्मुखः प्रोक्तः तारकारिः स्मृतो दश |
एकादशश्च सेनानी: गुहो द्वादश एव च ॥४
त्रयोदशो ब्रह्मचारी शिवतेजश्चतुर्दशः।
क्रौञ्चदारी पञ्चदशः षोड़शश्शिखिवहनः ॥५