पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

मुदाकरो मुक्तिदाता महाभोगो महोरगः।
यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः॥९२
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ।
यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ॥ ९३
यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान् यन्त्रवाहकः ।
यातनारहितो योगी योगीशो योगिनां वरः ॥ ९४
रमणीयो रम्यरूपो रसज्ञो रसभावकः ।
रखनो रञ्जितो रागी रुचिरो रुद्रसम्भवः ॥ ९५
रणप्रियो रणोदारो रागद्वेषविनाशनः ।
रत्नार्चिरुधिरो रम्यो रूपलावण्यविग्रहः ॥ ९६
रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ।
रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः ।।
राजीवाक्षो राजराजो रत्नमाल्यानुलेपनः ।
ऋग्यजुस्सामसंस्तुत्यो रजस्सत्त्वगुणान्वितः ॥ ९८
रजनीशकलारम्यो रत्नकुण्डलमण्डितः।
रत्नसन्मौळिशोभाढ्यो रणन्मञ्जीरभूषणः ॥ ९९