पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५
सुब्रह्मण्यसहस्रनामस्तोत्रम्

लोकैकनाथो लोकेशो ललितो लोभनाशकः ।
लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ।। १००
लोकबन्धुर्लोकधाता लोकत्रयसमाहितः।
लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः ॥ १०१
लोकाध्यक्षस्तु लीलावान् लोकोत्तरगुणान्वितः।
लोकबन्धुर्लोकनाथो लोकत्रयमहाहितः ॥१०२
वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः।
विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥ १०३
विपाशो विगतातङ्को विचित्राङ्गो विरोचनः ।
विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥ १०४
वचस्करो व्यापकश्च विज्ञानी विनयान्वितः।
विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥ १०५
वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः ।
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥१०६
वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् ।
विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥१०७