पृष्ठम्:बीजगणितम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणीपडघम् । शेषविविना न यदि ता भवन्ति मूलं तदा तदसत् ॥ २५ ॥ करणीवर्गराशौ रूपैरवश्यं भवितव्यम् । एकक रण्या वर्गे रूपाण्येव, द्धयोः सरूपैका करणी, तिसृणां तिस्रः, चतसृणां षट्, पञ्चानां दश, पराणां पञ्चदश इत्यादि । अतो दादीनां करणीनां वर्गेष्वेकादि- संकलितमितानि करणी खण्डानि सरूपाणि यथा- क्रमं स्युः | पदाहरणे तावन्ति न भवन्ति तदा संयोज्य योगकरण विश्लेष्य वा तावन्ति कृत्वा मूलं ग्राह्यमित्यर्थः । वर्गीकरणत्रित करणीति यस्य तुल्यरूपाणि -' इत्यादि स्पष्टार्थम् । G , अथ ' वर्गे करण्या यदि वा करण्यो:- इत्याधुक्केरनियमेन करणीशोधने सति मूलाशुद्धिः स्यादिति करणीवर्गे करणीसंख्या- नियमपूर्वकं शोध्यकरणीनियम गीतिद्वयेनार्याद्वयेन च निरूपयति- एकादीति | अद्वितीयगीतौ ' तिथिषु पञ्चानाम्' इति बहवः पठन्ति तत्र ' तिथिषु च पञ्चानाम् इति पठनीयम् । अन्यथा छन्दोमङ्गः स्यात् । उत्पत्स्यमानयेति । अत्र 'अल्पया' इत्यु- लक्षणम् | यत्र महती मूलकरणी अल्पा रूपाणि तत्र महत्या चतुर्गुणया यासामपवर्तः स्यात्ता एव विशोध्याः स्युः । प्राचार्य - मते त्वल्पत्वं पारिभाषिकम्, यतोऽस्य सूत्रस्योदाहरणे 'यां मूल- करणी रूपाणि प्रकल्प्यान्ये करणीखण्डे साध्येते सा महतीत्यर्थः, इति व्याकरिष्यति । पुनर्नियमान्तरमाह- अपवर्त इति । अल्पया 6