पृष्ठम्:बीजगणितम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- उत्पादकं यत्प्रवदन्ति बुद्धे- रधिष्ठितं सत्पुरुषेण सांख्याः । व्यक्तस्य कृत्स्नस्य तदेकबीज- मव्यक्कमीशं गणितं च वन्दे ॥ १ ॥ उत्पादकमिति | पद्यमिदमर्थत्रयनाचि । तत्र प्रथमं तावदव्यल- पक्षे व्याख्याते तद्अन्य प्रधानं सांख्यशास्त्रे जगत्कारणतया प्रसिद्धं वन्दे अभिवादधे | सांख्या: सेश्वराः श्रीभगवत्पतञ्जलि- मतानुसारिणो यद् बुद्धेः महत्तत्वस्य उत्पादकमभिव्यञ्जकं प्रव दन्ति कथयन्ति । ननु प्रधानमचेतनं कथं कार्यसुत्पाददित्यत उक् पुरुषेयाधिष्ठित सदिति । यथाहि-कुलालादिना चेतनेनाधिष्ठित कपालादि घटत्पादकं तद्वदित्यर्थः । निरीश्वराः कपिलमतानु- सारिणस्तु पुरुषनिरपेक्षमेव प्रधानमुत्पादकं श्रवदन्ति । तदुक्कं श्रीमदीश्वरकृष्णचरणै:- ' वत्सविवृद्धिनिमित्त क्षीरस्य यथा महत्तिरशस्य | पुरुषविमोशनिमित्तं तथा मवृत्तिः प्रधानस्य ॥ ५७ ॥ .7 'यथा तृणोदकं गवा भक्षितं क्षीरभावेन परिणम्य वत्सविटद्धिं करोति पुष्टे च वसेर्तते । एवं पुरुषविमोक्षनिमित्तं प्रधानमि- त्यज्ञस्य प्रवृत्तिः' इति तज्ञाष्यम् । ननु तादृशे प्रधाने किं प्रमाण- मित्तानस्य व्यक्तस्यैकबीजमिति | समस्तस्य व्यक्तस्य कार्यजातस्य एकं बीजं कारणमिति ॥ अथेशपक्षे- अत्र यत्तदोलिङ्ग- विपरिणामेन यदिति स्थाने यं तदिति स्थाने तं चेति बुद्धिमता व्याख्येयम् | तमीशं सञ्चिदानन्दरूपं वन्दे । सांख्याः, सम्यक ख्यायते ज्ञायते आत्मायया सा संख्या आत्माकारान्तःकरणवृत्तिः, सा विद्यते येषां ते सांख्या ज्ञान इत्यर्थः । सत्पुरुषेण नित्यानित्यवस्तुविवेकेहासुत्र फलभोगविरागशमदमादिसंपत्तिमुतु -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:बीजगणितम्.pdf/९&oldid=382838" इत्यस्माद् प्रतिप्राप्तम्