पृष्ठम्:बीजगणितम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः || बीजगणितम् | विलासिनामकेन व्याख्यानेनालंकृतम् । जयति जगदमन्दानन्दमन्दारकन्दो वृजिनशमनबीजं पार्वतीजानिरेकः । • तदनु गणितविद्यानाटिकासूत्रधारो जयति धरणिरत्नं भास्कराचार्यवर्यः ॥ १ ॥ तातश्री सरयूप्रसाद चरणस्वर्वृक्ष सेवापरो मातृश्री हरदेव्यपार करुणापीयूषपूर्णान्तरः । हृत्पद्मभ्रमरायमाणगिरिशो दुर्गाप्रसादः सुधी- रभ्येतृप्रतिभोगमाय कुरुते बीजोपरि व्याकृतिम् ॥ २ ॥ अथ तत्रभवान् भास्कराचार्यो ग्रहगणितरूपं सिद्धान्तशिरो- मणि चिकीर्षुस्तदुपयोगितयां तदध्यायभूतां लीलावतीनामिकां व्यक्तगणितपाटी निर्माय तथाभूतं बीजगणितमारभमाणः मत्यूह- व्यूइनिरासाय शिष्यशिक्षार्थ मङ्गलमादौ निबध्नाति-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:बीजगणितम्.pdf/८&oldid=382837" इत्यस्माद् प्रतिप्राप्तम्